________________
10
PP
श्रीविष्णुतीर्थविरचितान
षोडशी
॥ हरिः ॐ ॥
॥ अथ बन्धकप्रकरणम् ॥
श्री गुरुभ्यो नमः || निषुसीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनाम् ।। न ऋते त्वत्क्रियते किञ्चनारे महामर्कं मघवंश्चित्रमर्च | अत्रेदं रहस्यम् । अस्ति हि भगवतो रूपद्वयम् । तत्र जीवान्त: स्थामद्यं बहिष्ठं द्वितीयम् । तदेव च प्रलये सकलावतारलयाधिष्ठानं प्रधानम् । तस्मादेव च सृष्टावखिला - वताराणां सम्भवः । आद्यं त्वनन्तरूपैः प्रलये सृष्टौ च जीवानधिष्ठाया- वस्थितमेव न त्वेकत्र लीनम् । इदमेव च बिम्बरूपम् । एतज्ज्ञानादेव च मोक्षः । एतदेव हि विज्ञानमिति गीयते । रूपान्तरज्ञानोपासनादि तु प्रतिबन्धकनिवर्तकतयैतज्ज्ञानोपासना - दावेवोपयुज्यते ।
I
इयांस्तु विशेषः । यस्मिन्कल्पे ये जीवाः सृज्यास्तत्कल्पपर्यन्तमनादितो रमामात्रप्रतीकतया ताञ्जीवानधितिष्ठति । सृष्टिकल्पे तु दशेन्द्रियपञ्चभूत- मनोरूपषोडशकलात्मकमव्यूढगुणत्रयात्मकं प्रकाशक्रियावरणलक्षणशक्ति- युक्तं सूक्ष्मतमं लिङ्गशरीरं क्षीरं नीरेणेव जीवचिता संवलितम् । तस्मिंश्च चिदचिन्मिश्रे पिण्ड एव जीवशब्द व्यवहारो यावत्परममुक्तिः । तत्रैव च न भेदप्रतिभासो विनाऽपरोक्षात् । यथा दीपो भूतांतरसंवलितोऽपि तेजोऽप्रतिघं तथा सूक्ष्मगुणत्रयात्मिका चिन्मिश्रिता चित् । तच्च न चितो विशेषतोप- कारापकारक्षममिति द्वितीयेन महदहङ्कारभूतांशैः संयोज्य, भोगेन प्रारब्धं क्षपयित्वा, मोचयितुं दशेन्द्रियमनः श्रद्धाकाशवायुतेजोजलपृथिव्यन्नवीर्य- तपोलोकमन्त्रनामकर्मचिदात्मकषोडशकलं स्थूलं शरीरं निर्माय, स्वयं तत्र जीवमङ्गारे वह्निमिव निवेश्य, तेन सम्पाद्यमानं पुण्यपापात्मकं वित्तं त्रिविधेभ्यः स्वपुत्रेभ्यो यथायोग्यं विभज्य दातुं कार्यकारणप्रेरकान्
बन्धकप्रकरणम्
11
ब्रह्मरुद्रेन्द्रादीन् पुष्करान्तान्देवान्देवारींश्चाधिष्ठाय जीवानधितिष्ठति । न चानुबोभूयमानज्ञानानन्दस्वरूपे प्राकृतसुखादि भोगावसर इति तत्स्वरूपं मायाऽविद्यादिपदबोध्यया स्वेच्छारूपया लिङ्गशरीररूपया च प्रकृत्या - च्छादितम् । न चैतावताऽपि शरीरेन्द्रियविषया भोगदानायालं सुप्त्यादौ तददर्शनात् । अतो येन सहकृताः शरीरादयो भोगदानक्षमास्तदेव मुख्यं बन्धकम् । तच्च विचार्यमाणेऽभिमान एव भवति ।
तथा हि । स्वगतस्वामित्वविशेषाज्ञानेन शरीरेन्द्रियमनोविषय स्वामित्वा- भिमानः । तत्रापि विषयापेक्षया शरीरेन्द्रियेष्विन्द्रियेषु च मनसि विशेषतः । तत्र विषयास्तावदभिमता एव सुखदुःखादिप्रदा नेतरथा । स्वाभिमत- गृहकन्यादीनामलङ्कार वृद्ध्यादिना सुखादिदर्शनात् । अन्याभिमतेषु तददर्शनात् । शरीरेन्द्रियेषु स्वात्मनो विशेषोपकारितया विशेषतः स्वामित्वाभिमानः । तदैव तत्र ममताविशेषात्स्फुटं भेदाज्ञानम् । तस्माच्च तद्धर्माणां कार्श्यकठिनत्वादीनामात्मगतत्वाभिमानः । तदेताभ्यां विषयाभि- मानात्मगतत्वाभिमानाभ्यामात्मनोऽत्यन्तमुपकारिणि मनसि दुःखादिः । सति च तस्मिन्नात्मनस्तत्र ममतातिशयेन स्पष्टं भेदाज्ञानेन मनोधर्मस्याप्य- त्मन्यहं दुःखीत्याद्यारोपवशानीचोच्चत्वलक्षण विकारावात्मनो भवतः । अयमेव हि सुखदुःखादिभोगो नाम न तु साक्षात्कारमात्रम् । तथा सति भगवतोऽपि दुःखानुभवप्रसङ्गात् । अयमेव च बन्ध इति गीयते ।
तदेवंश्रीपतिर्हरिरेवाज्ञानसप्तकं निमित्तीकृत्याभिमानसप्तकमुत्पाद्य शरीरेन्द्रयविषयैः सुखदुःखे भोजयतीति सिद्धम् । तदेवं विधशरीरेन्द्रिय- विषयलक्षणबन्धकनिवृत्तये शरीरेन्द्रियैर्ज्ञानकर्मलक्षणं यं यं व्यापारमारभते तत्र सर्वत्रापि बन्धकोऽभिमान एव रूपान्तरेण प्रसरीसरीति । तथा हि । स्वगतकर्तृत्वविशेषाज्ञानेनाहं कर्तेति कर्तृत्वस्वातन्त्र्याभिमानः । स्वगत- भोक्तृत्वविशेषाज्ञानेनाहं भोक्तेति फलभोक्तृत्वस्वातन्त्र्याभिमानः । स्वगत- कारकस्वाम्यविशेषाज्ञानेन ममैव करणानीति कारकमुख्यस्वाम्यभिमानः ।
।
1:3